|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.74. अध्यायः 074
Mahabharata - Vana Parva - Chapter Topics
दमयन्त्या बाहुकस्य केशिन्या स्वगृहानयनम् ॥ 1 ॥ बाहुकदमयन्त्योः संवादः ॥ 2 ॥ बाहुकेन स्वस्य नलत्वोत्कीर्तनपूर्वकं कर्कोटकानुस्मरणेन तद्वत्तवस्त्रद्वयपरिधाने तस्य निजरूपप्रादुर्भावः ॥ 3 ॥ ततो नलंप्रत्यभिजानन्त्या दमयन्त्या तत्परिरम्भणम् ॥ 4 ॥
Mahabharata - Vana Parva - Chapter Text
बृहदश्व उवाच। 3-74-0x(1969)(18719)
सर्वं विकारं दृष्ट्वा तु पुण्यश्लोकस्य धीमतः।
आगत्य केशिनी क्षिप्रं दमयन्त्यै न्यवेदयत् ॥ 3-74-1(18720)
दमयन्ती ततो भूयः प्रेषयामास केशिनीम्।
मातुः सकाशं दुःखार्ता नलशङ्कासमुत्सुका ॥ 3-74-2(18721)
परीक्षितो मे बहुशो बाहुको नलशङ्कया।
रूपे मे संशयस्त्वेकः स्वयमिच्छमि वेदितुम् ॥ 3-74-3(18722)
स वा प्रवेश्यतां मातर्मां वाऽनुज्ञातुमर्हसि।
विदितं वाऽथवाऽज्ञातं पितुर्मे संविधीयताम् ॥ 3-74-4(18723)
एवमुक्ता तु वैदर्भ्या सा देवी भीममब्रवीत्।
दुहितुस्तमभिप्रायमन्वजानात्स पार्थिवः ॥ 3-74-5(18724)
सा चै पित्राऽभ्यनुज्ञाता मात्रा च भरतर्षभ।
`तयोर्नियोगात्कौरव्य केशिनीमिदमब्रवीत्' ॥ 3-74-6(18725)
गच्छ केशिनि शीघ्रं त्वंबाहुकं पितृशासनात्।
आनयस्व यथा माता त्वं तथा कुरु मे प्रियम् ॥ 3-74-7(18726)
गत्वा तु केशिनी शिघ्रं बाहुकं वाक्यमब्रवीत्।
भीमस्य शासनात्सूतागताहं विद्धि बाहुक ॥ 3-74-8(18727)
प्रविश्यतां राजवेश्म इत्युक्तो भरतर्षभ।
बाहुकस्तु चिरं ध्यात्वा केशिन्या सह भारत।
प्रविवेश महाबाहुर्दमयन्तीनिवेशनम्' ॥ 3-74-9(18728)
नलं प्रवेशयामास यत्रतस्याः प्रतिश्रयः ॥ 3-74-10(18729)
तां स्म दृष्ट्वैव सहसा दमयन्तीं नलो नृपः।
आविष्टः शोकदुःखाभ्यां बभूवाश्रुपरिप्लुतः ॥ 3-74-11(18730)
तं तु दृष्ट्वातथायुक्तं दमयन्ती नलं तदा।
तीव्रशोकसमाविष्टा बभूव वरवर्णिनी ॥ 3-74-12(18731)
ततः काषायवसना जटिला मलपङ्किनी।
दमयन्ती महाराज बाहुकं वाक्यमब्रवीत् ॥ 3-74-13(18732)
पूर्वं दृष्टस्त्वया कश्चिद्धर्मज्ञो नाम बाहुक।
सुप्तामुत्सृज्यविपिने गतो यः पुरुषः स्त्रियम् ॥ 3-74-14(18733)
अनागसं प्रियां भार्यां विजने श्रममोहिताम्।
अपहाय तु को गच्चेत्पुण्यश्लोकमृतेनलम् ॥ 3-74-15(18734)
किमु तस्य मया बाल्यादपराद्धं महीपतेः।
यो मामुत्सृज्य विपिने गतवान्निद्रयाऽर्दिताम् ॥ 3-74-16(18735)
साक्षाद्देवानपाहाय वृतो यः स पुरा मया।
अनुव्रतामभिमतां पुत्रिणीं त्यक्तवान्कथम् ॥ 3-74-17(18736)
अग्नौ पाणिगृहीता च हंसानां वचने स्थिताम्।
भरिष्यामीति सत्यं तु प्रतिश्रुत्य क्व तद्गतम् ॥ 3-74-18(18737)
बृहदश्व उवाच। 3-74-19x(1970)
दमयन्त्या ब्रुवन्त्यास्तु सर्वमेतदरिदम।
शोकजं वारिनेत्राभ्यामसुखं प्रास्रवद्बहु ॥ 3-74-19(18738)
अतीव कृष्णताराभ्यां रक्तान्ताभ्यां जलंतु तत्।
परिस्रवन्नलो राजा शोकार्तइदमब्रवीत् ॥ 3-74-20(18739)
`नलोऽहं विपुलश्रोणि त्वामुत्सृज्य यतो गतः।
आविष्टः कलिना भद्रे तेन मोहवशं गतः ॥' 3-74-21(18740)
मम राज्यं प्रनष्टं यन्नाहं तत्कृतवान्स्वयम्।
कलिना तत्कृतं भीरु यच्च त्वामहमत्यजम् ॥ 3-74-22(18741)
यत्त्वया धर्मकृच्छ्रे तु शापेनाभिहतः पुरा।
वनस्थया दुःखितया शोचन्त्या मांदिवानिशम् ॥ 3-74-23(18742)
स मच्छरीरे त्वच्छापाद्दह्यमानोऽवसत्कलिः।
त्वच्छापदग्धः सततं सोऽग्नावग्निरिवाहितः ॥ 3-74-24(18743)
मम च व्यवसायेन तपसा चैव निर्जितः।
दुःखस्यान्तेन चानेन भवितव्यं हि नौ शुभे ॥ 3-74-25(18744)
विमुच्य मां गतः पापस्ततोऽहमिह चागतः।
त्वदर्थं विपुलश्रोणि न हि मेऽन्यत्प्रयोजनम् ॥ 3-74-26(18745)
कथं नु नारी भर्तारमनुरक्तमनुव्रतम्।
उत्सृज्य वरयेदन्यं यथा त्वं भीरु कर्हिचित् ॥ 3-74-27(18746)
दूताश्चरन्ति पृथिवीं कृत्स्नां नृपतिशासनात्।
भैमी किल स्म भर्तारं द्वितीयं वरयिष्यति ॥ 3-74-28(18747)
स्वैरवृत्ता यथाकाममनुरूपमिवात्मनः।
श्रुत्वैव चैवं त्वरितो भागस्वरिरुपस्थितः ॥ 3-74-29(18748)
दमयन्ती तु तच्छ्रुत्वा नलस्य परिदेवितम्।
प्राञ्जलिर्वेपमाना च भीता वचनमब्रवीत् ॥ 3-74-30(18749)
न मामर्हसि कल्याण पापेन परिशङ्कितुम्।
मया हि देवानुत्सृज्य वृतस्त्वं निषधाधिप ॥ 3-74-31(18750)
तवाभिगमनार्थं तु सर्वतो ब्राह्मणा गताः।
वाक्यानि मम गाथाभिर्गायमाना दिशो दश ॥ 3-74-32(18751)
ततस्त्वां ब्राह्मणो विद्वान्पर्णादो नाम पार्थिव।
अभ्यगच्छत्कोसलायामृतुपर्णनिवेशने ॥ 3-74-33(18752)
तेन वाक्ये कृतेसम्यक्प्रतिवाक्ये तथा हृते।
उपायोऽयंमया दृष्टो नैषधानयने तव ॥ 3-74-34(18753)
त्वामृते नहि लोकेऽन्य एकाह्ना पृथिवीपते।
समर्थो योजनशतं गन्तुमश्वैर्नराधिप ॥ 3-74-35(18754)
`तथापि मां महीपाल भजेतां चरणौ तव।'
स्पृशेयं तेन सत्येन पादावेतौ महीपते।
यथा नासत्कृतं किंचिन्मनसाऽपि चराम्यहम् ॥ 3-74-36(18755)
अयं चरति लोकेऽस्मिन्भूतसाक्षी सदागतिः।
एष मे मुञ्चतु प्राणान्यदि पापं चराम्यहम् ॥ 3-74-37(18756)
यथा चरति तिग्मांशुः परितो भुवनं सदा।
स मुञ्चतु मम प्राणान्यदि पापं चराम्यहम् ॥ 3-74-38(18757)
चन्द्रमाः सर्वभूतानामन्तश्चरति साक्षिवत्।
स मुञ्चतु मम प्राणान्यदि पापं चराम्यहम् ॥ 3-74-39(18758)
एते देवास्त्रयः कृत्स्नं त्रैलोक्यं धारयन्ति वै।
विब्रुवन्तु यथा सत्यमेतद्देवास्त्यजन्तु माम् ॥ 3-74-40(18759)
एवमुक्ते ततो वायुरन्तरिक्षादभाषत।
नैषा कृतवती पापं नल सत्यं ब्रवीमि ते ॥ 3-74-41(18760)
राजञ्शीलनिधिः स्फीतो दमयन्त्या सुरक्षितः।
साक्षिणो रक्षिणश्चास्या वयं त्रीन्परिवत्सरान् ॥ 3-74-42(18761)
उपायो विहितश्चायं त्वदर्थमतुलोऽनया।
न ह्येकाह्ना शतं गन्ता त्वामृतेऽन्यः पुमानिह ॥ 3-74-43(18762)
उपपन्ना त्वया भैमी त्वं च भैम्या महीपते।
नात्र शङ्का त्वया कार्या संगच्छ सह भार्यया ॥ 3-74-44(18763)
तथा ब्रुवति वायौ तु पुष्पवृष्टिः पपात ह।
देवदुन्दुभयो नेदुर्ववौ च पवनः शिवः ॥ 3-74-45(18764)
तदद्भुतमयं दृष्ट्वा नलो राजाऽथ भारत।
दमयन्त्यां विशङ्कां तामुपाकर्षदरिंदमः ॥ 3-74-46(18765)
ततस्तद्वस्त्रमरजः प्रावृणोद्वसुधाधिपः।
संस्मृत्य नागराजं तं ततो लेभे स्वकं वपुः ॥ 3-74-47(18766)
स्वरूपिणं तु भर्तारं दृष्ट्वा भीमसुता तदा।
प्राक्रोशदुच्चैरालिङ्ग्य पुण्यश्लोकमनिन्दिता ॥ 3-74-48(18767)
भैमीमपि नलो राजा भ्राजमानो यथा पुरा।
सस्वजे स्वसुतौ चापि यथावत्प्रत्यनन्दत ॥ 3-74-49(18768)
ततः स्वोरसि विन्यस्य वक्रं तस्य शुभानना।
परीता तेन दुःखेन निशश्वासायतेक्षणा ॥ 3-74-50(18769)
तथैव मलदिग्धाङ्गीं परिष्वज्य शुचिस्मिताम्।
सुचिरं पुरुषव्याघ्रस्तस्थौ शोकपरिप्लुतः ॥ 3-74-51(18770)
ततः सर्वं यथावृत्तं दमयन्त्या नलस्य च।
भीमायाकथयत्प्रीत्या वैदर्भ्या जननी नृप ॥ 3-74-52(18771)
ततोऽब्रवीन्महाराजः कृतशौचमहंनलम्।
दमयन्त्या सहोपेतं कल्ये द्रष्टा सुखोषितम् ॥ 3-74-53(18772)
ततस्तौ सहितौ रात्रिं कथयन्तौ पुरातनम्।
वने विचरितं सर्वमूषतुर्मुदितौ नृप ॥ 3-74-54(18773)
गृहे भीमस्य नृपतेः परस्परसुखैषिणौ।
वसेतां हृष्टसंकल्पौ वैदर्भी च नलश् ह ॥ 3-74-55(18774)
स चतुर्थे ततो वर्षे संगम्य सह भार्यया।
सर्वकामैः सुसिद्धार्थो लब्धवान्परमां मुदम् ॥ 3-74-56(18775)
दमयन्त्यपि भर्तारमासाद्याप्यायिता भृशम्।
अर्धसंजातसस्येव तोयं प्राप्य वसुंधरा ॥ 3-74-57(18776)
सैवं समेत्य व्यपनीय तन्द्रां
शान्तज्वरा हर्षविवृद्धसत्त्वा।
रराज भैमी समवाप्तकामा
शीतांशुना रात्रिरिवोदितेन ॥ 3-74-58(18777)
॥ इतिश्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि चतुःसप्ततितमोऽध्यायः ॥ 74 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-74-10 प्रतिश्रयः गृहम् ॥ 3-74-16 किंनु तस्य मया चीर्णमपराधमिति ध. पाटः ॥ 3-74-18 अग्नौ पाणि गृहीत्वातु देवानामप्रतस्तथेति झ. पाठः ॥ 3-74-33 त्वां दृष्टवान्कोसलेष्वति ध. पाठः ॥ 3-74-37 सदागतिर्वायुः ॥ 3-74-39 चन्द्रमाश्चित्ताभिमानिनी देवता ॥ 3-74-53 कल्ये प्रभाते। कृतार्थं तमहं नलमिति क. ध. पाठः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|