(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.74. अध्यायः 074
Mahabharata - Vana Parva - Chapter Topics
दमयन्त्या बाहुकस्य केशिन्या स्वगृहानयनम् ॥ 1 ॥ बाहुकदमयन्त्योः संवादः ॥ 2 ॥ बाहुकेन स्वस्य नलत्वोत्कीर्तनपूर्वकं कर्कोटकानुस्मरणेन तद्वत्तवस्त्रद्वयपरिधाने तस्य निजरूपप्रादुर्भावः ॥ 3 ॥ ततो नलंप्रत्यभिजानन्त्या दमयन्त्या तत्परिरम्भणम् ॥ 4 ॥
Mahabharata - Vana Parva - Chapter Text

बृहदश्व उवाच। 3-74-0x(1969)(18719)
सर्वं विकारं दृष्ट्वा तु पुण्यश्लोकस्य धीमतः।
आगत्य केशिनी क्षिप्रं दमयन्त्यै न्यवेदयत् ॥ 3-74-1(18720)
दमयन्ती ततो भूयः प्रेषयामास केशिनीम्।
मातुः सकाशं दुःखार्ता नलशङ्कासमुत्सुका ॥ 3-74-2(18721)
परीक्षितो मे बहुशो बाहुको नलशङ्कया।
रूपे मे संशयस्त्वेकः स्वयमिच्छमि वेदितुम् ॥ 3-74-3(18722)
स वा प्रवेश्यतां मातर्मां वाऽनुज्ञातुमर्हसि।
विदितं वाऽथवाऽज्ञातं पितुर्मे संविधीयताम् ॥ 3-74-4(18723)
एवमुक्ता तु वैदर्भ्या सा देवी भीममब्रवीत्।
दुहितुस्तमभिप्रायमन्वजानात्स पार्थिवः ॥ 3-74-5(18724)
सा चै पित्राऽभ्यनुज्ञाता मात्रा च भरतर्षभ।
`तयोर्नियोगात्कौरव्य केशिनीमिदमब्रवीत्' ॥ 3-74-6(18725)
गच्छ केशिनि शीघ्रं त्वंबाहुकं पितृशासनात्।
आनयस्व यथा माता त्वं तथा कुरु मे प्रियम् ॥ 3-74-7(18726)
गत्वा तु केशिनी शिघ्रं बाहुकं वाक्यमब्रवीत्।
भीमस्य शासनात्सूतागताहं विद्धि बाहुक ॥ 3-74-8(18727)
प्रविश्यतां राजवेश्म इत्युक्तो भरतर्षभ।
बाहुकस्तु चिरं ध्यात्वा केशिन्या सह भारत।
प्रविवेश महाबाहुर्दमयन्तीनिवेशनम्' ॥ 3-74-9(18728)
नलं प्रवेशयामास यत्रतस्याः प्रतिश्रयः ॥ 3-74-10(18729)
तां स्म दृष्ट्वैव सहसा दमयन्तीं नलो नृपः।
आविष्टः शोकदुःखाभ्यां बभूवाश्रुपरिप्लुतः ॥ 3-74-11(18730)
तं तु दृष्ट्वातथायुक्तं दमयन्ती नलं तदा।
तीव्रशोकसमाविष्टा बभूव वरवर्णिनी ॥ 3-74-12(18731)
ततः काषायवसना जटिला मलपङ्किनी।
दमयन्ती महाराज बाहुकं वाक्यमब्रवीत् ॥ 3-74-13(18732)
पूर्वं दृष्टस्त्वया कश्चिद्धर्मज्ञो नाम बाहुक।
सुप्तामुत्सृज्यविपिने गतो यः पुरुषः स्त्रियम् ॥ 3-74-14(18733)
अनागसं प्रियां भार्यां विजने श्रममोहिताम्।
अपहाय तु को गच्चेत्पुण्यश्लोकमृतेनलम् ॥ 3-74-15(18734)
किमु तस्य मया बाल्यादपराद्धं महीपतेः।
यो मामुत्सृज्य विपिने गतवान्निद्रयाऽर्दिताम् ॥ 3-74-16(18735)
साक्षाद्देवानपाहाय वृतो यः स पुरा मया।
अनुव्रतामभिमतां पुत्रिणीं त्यक्तवान्कथम् ॥ 3-74-17(18736)
अग्नौ पाणिगृहीता च हंसानां वचने स्थिताम्।
भरिष्यामीति सत्यं तु प्रतिश्रुत्य क्व तद्गतम् ॥ 3-74-18(18737)
बृहदश्व उवाच। 3-74-19x(1970)
दमयन्त्या ब्रुवन्त्यास्तु सर्वमेतदरिदम।
शोकजं वारिनेत्राभ्यामसुखं प्रास्रवद्बहु ॥ 3-74-19(18738)
अतीव कृष्णताराभ्यां रक्तान्ताभ्यां जलंतु तत्।
परिस्रवन्नलो राजा शोकार्तइदमब्रवीत् ॥ 3-74-20(18739)
`नलोऽहं विपुलश्रोणि त्वामुत्सृज्य यतो गतः।
आविष्टः कलिना भद्रे तेन मोहवशं गतः ॥' 3-74-21(18740)
मम राज्यं प्रनष्टं यन्नाहं तत्कृतवान्स्वयम्।
कलिना तत्कृतं भीरु यच्च त्वामहमत्यजम् ॥ 3-74-22(18741)
यत्त्वया धर्मकृच्छ्रे तु शापेनाभिहतः पुरा।
वनस्थया दुःखितया शोचन्त्या मांदिवानिशम् ॥ 3-74-23(18742)
स मच्छरीरे त्वच्छापाद्दह्यमानोऽवसत्कलिः।
त्वच्छापदग्धः सततं सोऽग्नावग्निरिवाहितः ॥ 3-74-24(18743)
मम च व्यवसायेन तपसा चैव निर्जितः।
दुःखस्यान्तेन चानेन भवितव्यं हि नौ शुभे ॥ 3-74-25(18744)
विमुच्य मां गतः पापस्ततोऽहमिह चागतः।
त्वदर्थं विपुलश्रोणि न हि मेऽन्यत्प्रयोजनम् ॥ 3-74-26(18745)
कथं नु नारी भर्तारमनुरक्तमनुव्रतम्।
उत्सृज्य वरयेदन्यं यथा त्वं भीरु कर्हिचित् ॥ 3-74-27(18746)
दूताश्चरन्ति पृथिवीं कृत्स्नां नृपतिशासनात्।
भैमी किल स्म भर्तारं द्वितीयं वरयिष्यति ॥ 3-74-28(18747)
स्वैरवृत्ता यथाकाममनुरूपमिवात्मनः।
श्रुत्वैव चैवं त्वरितो भागस्वरिरुपस्थितः ॥ 3-74-29(18748)
दमयन्ती तु तच्छ्रुत्वा नलस्य परिदेवितम्।
प्राञ्जलिर्वेपमाना च भीता वचनमब्रवीत् ॥ 3-74-30(18749)
न मामर्हसि कल्याण पापेन परिशङ्कितुम्।
मया हि देवानुत्सृज्य वृतस्त्वं निषधाधिप ॥ 3-74-31(18750)
तवाभिगमनार्थं तु सर्वतो ब्राह्मणा गताः।
वाक्यानि मम गाथाभिर्गायमाना दिशो दश ॥ 3-74-32(18751)
ततस्त्वां ब्राह्मणो विद्वान्पर्णादो नाम पार्थिव।
अभ्यगच्छत्कोसलायामृतुपर्णनिवेशने ॥ 3-74-33(18752)
तेन वाक्ये कृतेसम्यक्प्रतिवाक्ये तथा हृते।
उपायोऽयंमया दृष्टो नैषधानयने तव ॥ 3-74-34(18753)
त्वामृते नहि लोकेऽन्य एकाह्ना पृथिवीपते।
समर्थो योजनशतं गन्तुमश्वैर्नराधिप ॥ 3-74-35(18754)
`तथापि मां महीपाल भजेतां चरणौ तव।'
स्पृशेयं तेन सत्येन पादावेतौ महीपते।
यथा नासत्कृतं किंचिन्मनसाऽपि चराम्यहम् ॥ 3-74-36(18755)
अयं चरति लोकेऽस्मिन्भूतसाक्षी सदागतिः।
एष मे मुञ्चतु प्राणान्यदि पापं चराम्यहम् ॥ 3-74-37(18756)
यथा चरति तिग्मांशुः परितो भुवनं सदा।
स मुञ्चतु मम प्राणान्यदि पापं चराम्यहम् ॥ 3-74-38(18757)
चन्द्रमाः सर्वभूतानामन्तश्चरति साक्षिवत्।
स मुञ्चतु मम प्राणान्यदि पापं चराम्यहम् ॥ 3-74-39(18758)
एते देवास्त्रयः कृत्स्नं त्रैलोक्यं धारयन्ति वै।
विब्रुवन्तु यथा सत्यमेतद्देवास्त्यजन्तु माम् ॥ 3-74-40(18759)
एवमुक्ते ततो वायुरन्तरिक्षादभाषत।
नैषा कृतवती पापं नल सत्यं ब्रवीमि ते ॥ 3-74-41(18760)
राजञ्शीलनिधिः स्फीतो दमयन्त्या सुरक्षितः।
साक्षिणो रक्षिणश्चास्या वयं त्रीन्परिवत्सरान् ॥ 3-74-42(18761)
उपायो विहितश्चायं त्वदर्थमतुलोऽनया।
न ह्येकाह्ना शतं गन्ता त्वामृतेऽन्यः पुमानिह ॥ 3-74-43(18762)
उपपन्ना त्वया भैमी त्वं च भैम्या महीपते।
नात्र शङ्का त्वया कार्या संगच्छ सह भार्यया ॥ 3-74-44(18763)
तथा ब्रुवति वायौ तु पुष्पवृष्टिः पपात ह।
देवदुन्दुभयो नेदुर्ववौ च पवनः शिवः ॥ 3-74-45(18764)
तदद्भुतमयं दृष्ट्वा नलो राजाऽथ भारत।
दमयन्त्यां विशङ्कां तामुपाकर्षदरिंदमः ॥ 3-74-46(18765)
ततस्तद्वस्त्रमरजः प्रावृणोद्वसुधाधिपः।
संस्मृत्य नागराजं तं ततो लेभे स्वकं वपुः ॥ 3-74-47(18766)
स्वरूपिणं तु भर्तारं दृष्ट्वा भीमसुता तदा।
प्राक्रोशदुच्चैरालिङ्ग्य पुण्यश्लोकमनिन्दिता ॥ 3-74-48(18767)
भैमीमपि नलो राजा भ्राजमानो यथा पुरा।
सस्वजे स्वसुतौ चापि यथावत्प्रत्यनन्दत ॥ 3-74-49(18768)
ततः स्वोरसि विन्यस्य वक्रं तस्य शुभानना।
परीता तेन दुःखेन निशश्वासायतेक्षणा ॥ 3-74-50(18769)
तथैव मलदिग्धाङ्गीं परिष्वज्य शुचिस्मिताम्।
सुचिरं पुरुषव्याघ्रस्तस्थौ शोकपरिप्लुतः ॥ 3-74-51(18770)
ततः सर्वं यथावृत्तं दमयन्त्या नलस्य च।
भीमायाकथयत्प्रीत्या वैदर्भ्या जननी नृप ॥ 3-74-52(18771)
ततोऽब्रवीन्महाराजः कृतशौचमहंनलम्।
दमयन्त्या सहोपेतं कल्ये द्रष्टा सुखोषितम् ॥ 3-74-53(18772)
ततस्तौ सहितौ रात्रिं कथयन्तौ पुरातनम्।
वने विचरितं सर्वमूषतुर्मुदितौ नृप ॥ 3-74-54(18773)
गृहे भीमस्य नृपतेः परस्परसुखैषिणौ।
वसेतां हृष्टसंकल्पौ वैदर्भी च नलश् ह ॥ 3-74-55(18774)
स चतुर्थे ततो वर्षे संगम्य सह भार्यया।
सर्वकामैः सुसिद्धार्थो लब्धवान्परमां मुदम् ॥ 3-74-56(18775)
दमयन्त्यपि भर्तारमासाद्याप्यायिता भृशम्।
अर्धसंजातसस्येव तोयं प्राप्य वसुंधरा ॥ 3-74-57(18776)
सैवं समेत्य व्यपनीय तन्द्रां
शान्तज्वरा हर्षविवृद्धसत्त्वा।
रराज भैमी समवाप्तकामा
शीतांशुना रात्रिरिवोदितेन ॥ 3-74-58(18777)

॥ इतिश्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि चतुःसप्ततितमोऽध्यायः ॥ 74 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-74-10 प्रतिश्रयः गृहम् ॥ 3-74-16 किंनु तस्य मया चीर्णमपराधमिति ध. पाटः ॥ 3-74-18 अग्नौ पाणि गृहीत्वातु देवानामप्रतस्तथेति झ. पाठः ॥ 3-74-33 त्वां दृष्टवान्कोसलेष्वति ध. पाठः ॥ 3-74-37 सदागतिर्वायुः ॥ 3-74-39 चन्द्रमाश्चित्ताभिमानिनी देवता ॥ 3-74-53 कल्ये प्रभाते। कृतार्थं तमहं नलमिति क. ध. पाठः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.